आपो वै देवानां पत्नय आसन् ।
ता मिथुनमैच्छन्त ।
तासां वायुः पृष्ठे व्यवर्तत ।
ता गर्भमदधत ।
ता देवा अब्रुवन्सृजध्वमिति ।
ता रथनरं प्रथमेऽहन्नसृजन्त ।
तद्र थघोषोऽन्वसृज्यत ।
तस्माद्र थन्तरस्य स्तोत्रे रथघोषं कुर्वन्ति ।
ता अब्रुवन्सृजध्वमेवेति ।
ता बृहद्द्वितीयेऽहन्नसृजन्त ।
तत्पर्जन्यस्य घोषोऽन्वसृज्यत ।
तस्माद्बृहत स्तोत्रे दुन्दुभीनुद्वादयन्ति ।
वर्षुकः पर्जन्यो भवति ।
ता अब्रुवन्सृजध्वमेवेति ।
ता वैरूपं तृतीयेऽहन्नसृजन्त ।
तद्ग्रामघोषोऽन्वसृज्यत ।
तस्माद्वैरूपस्य स्तोत्रे ग्रामघोषं कुर्वन्ति ।
ता अब्रुवन्सृजध्वमेवेति ।
ता वैराजं चतुर्थेऽहन्नसृजन्त ।
तदग्नेर्घोषोऽन्वसृज्यत ।
तस्माद्वैराजस्य स्तोत्रेऽग्निं मन्थन्ति ।
ता अब्रुवन्सृजध्वमेवेति ।
ताश्शाक्वरं पञ्चमेऽहन्नसृजन्त ।
तदपां घोषोऽन्यसृज्यत ।
तस्माच्छाक्वरस्य स्तोत्रेऽप उपनिधाय स्तुवन्ति ।
ता अब्रुवन्सृजध्वमेवेति ।
ता रैवतं षष्ठेऽहन्नसृजन्त ।
तत्पशुघोषोऽन्वसृज्यत ।
तस्माद्रै वतस्य स्तोत्रे पशुघोषं कुर्वन्ति । वत्सान्मातृभिस्संवाशयन्ति ।
ता अब्रुवन्सृजध्वमेवेति ।
एतावद्वावेत्यब्रुवन् ।
तदेते ह वा आसामैन्द्रा घोषा वदन्ति ।
अस्मिन्नैन्द्रा घोषास्सर्वा अस्मिन्पुण्या वाचो वदन्ति य एवं वेद ।
ते देवा वामदेव्यमेव योनिं परिगृह्योर्ध्वा उदागाहन्त ।
तदेतस्य पृष्ठ्यस्य षडहस्य मध्ये ह मायं न्यदधुः ।
तद्यानि ह वै स्तुतानि सामानि पश्चात्वं तेषां वामदेव्यम् । अथ यान्यस्तुतानि पुरस्त्वं तेषाम् ।
यो वै ग्रामस्य श्रेष्ठी बलिष्ठो भवति तेन पश्चात्वेन तेन पुरस्त्वेन यन्ति ।
अरिष्टेन यज्ञेन यजते य एवं वेद ।
एतस्माद्ध वा इदं युग्यौ न समवहनौ वहतोऽन्यतर एव वहीयान्भवति ।
तस्माद्वामदेव्यं पृष्ठम् ।
पृष्ठं हि प्रतिवहतीति ।
क्ळ्प्तिर्वा एषा शान्तिर्वा एषा प्रतिष्ठा वा एषैष वाव यज्ञो यद्वामदेव्यम् ।
तस्माद्येन येनाह्ना स्तुवन्ति तत्तदनुसर्पति कल्पयच्छमयत् ११८