११७

असुराणां ह वा अग्र इमे लोका आसुः ।

उपजीविन इव हि देवा आसुस्तप एव श्रद्धामन्वायत्ताः ।

तेऽर्चन्तस्ताम्यन्तस्तेजो बलमिन्द्रि यं वीर्यमात्मस्वदधत ।

तदेषामसुरा आदित्सन्त ।

तदादित्स्यमानमप्सु प्रावेशयन् । नेदिदमसुरा विनान्ता इति ।

तस्मादिदमप्येतर्ह्यमित्रेष्वायत्सु वित्तमुपगूहन्ति । नेदिदममित्रा विन्दान्ता इति ।

तदपैव देवेभ्योऽक्रामन् । नासुरान्प्राप्नोत् ।

ते देवा एतं संवत्सरश्रममपश्यन् ।

तेनैनदभ्याश्राम्यन् ।

तदूर्ध्वमुपश्रयत ।

तद्दिवि स्पृष्टमतिष्ठत् ।

यद्दिवि स्पृष्टमतिष्ठत् । तत्स्पृष्टानां स्पृष्टत्वम् ।

स्पृष्टानि ह वै नामैतानि ।

तानि पृष्ठानीति परोक्षमाख्यायन्ते ।

सर्वान्कामान्स्पृशति य एवं वेद ।

स यत्काम स्यात्संवत्सरं श्राम्येद् । अव हैवैनद्रुन्द्धे ।

संवत्सरपरिमितो ह्येवैष यच्छ्रमः ११७