तदाहुर्विहृता अग्नयो भवन्ति । वास्तु परिशिष्यते । गर्भा अनुशोषुका स्युर् । यच्चात्वाले निनयेत् ।
आस्तावे निनयेदिति ।
एष ह वा उद्गातुश्च यजमानस्य च धिष्ण्यो यदास्तावः ।
आयतनमास्तावः ।
आयतन एव तदेतान्कामान्प्रतिष्ठापयन्ति ।
तासामत्र यावत्कामं निनीय । अथान्तःपरिधि निनयेत् ।
तथा हैषां ता हुताश्चाहुताश्च भवन्ति ।
यथा ह वा इदं विदावन्प्राणावनिरुक्तावेवमेतौ धिष्ण्यौ सन्तावनवगतौ ।
प्राणौ वा इमौ सन्तावनपतृण्णौ धिष्ण्यावेतौ सन्तौ न विह्रियेते ११६