तदाहुस्सकृदेव संस्तुतासूपरिष्टात्पुरीषेण स्तोतव्यमुत वै बहुतयाः पशवो नानात्यास्समानमेव गोष्ठमभिसमायन्तीति ।
यद्द्वयीरु ह तथा प्रजा भवन्ति ।
अनुपर्यायमेव पुरीषेण स्तोतव्यम् ।
तथा ह सर्वा व्रजवतीर्भवन्ति ।
षळानि पुरीषाणि भवन्ति ।
अनुपर्यायमेव पुरीषेण स्तोतव्यम् ।
तथा ह सर्वा व्रजवतीर्भवन्ति ।
षळानि पुरीषाणि भवन्ति ।
पशवो वा इळा । आयतनं पुरीषम् ।
आयतन एव तदेतान्पशून्प्रतिष्ठापयन्ति ।
अप उपनिधाय स्तुवन्ति साम्नस्सर्वत्वाय ।
एतद्वै महानाम्नीनां सर्वं रूपं यदापः ।
ता उदिङ्गयेयू रूपसमृद्धतायै ।
तदाहुः क्वेमा निनयेदिति ।
तासामेषा मीमांसा वसतीवरीष्ववनीय सोममभिषुत्य भक्षयेयुरिति ।
मथितमिव ह त्वेषां भवति यातयाम ।
यातयाम्नीरयातयाम्नीष्ववनयन्ति ।
अथो आहुस्तृतीयसवनीयानेवाभिः पुरोडाशानुपसृजेयुरिति ।
यजमानो वै पुरोडाशोऽन्नमापः ।
अन्नेनैव तद्यजमानं समनक्ति ।
ईश्वरो ह तु यजमानमुत्तरवयसे श्वः पामा वेत्थोः ।
कण्डूयिता इव हि भवन्ति ।
अथो आहुश्चात्वाल एव निनयेदिति ।
योनिर्वै यज्ञस्य चात्वालं । रेत आपो । योन्यामेवैतद्रे तः प्रतिष्ठापयति ।
अनुष्ठ्यास्य रेतस्सिक्तं प्रजायते य एवं वेद ११५