आपो वै महानाम्नयः ।
तासामादित्य एव वत्सः ।
तद्या ह वै प्राचीरापो धावन्त्येतमेव ता उद्यन्तमभीप्सन्तीर्धावन्ति ।
अथ याः प्रतीचीर्धावन्त्येतमेव ता अस्तं यन्तमभीप्सन्तीर्धावन्ति ।
तद्यत्पृच्छेयुर्या इमा आपोऽहरहर्धावन्ति कमेता अभीप्सन्तीर्धावन्तीति ।
एतमित्येव तत्र प्रतिवचनम् ।
अथो आहुर्वायुर्वै महानाम्नीनां वत्सः ।
एष हीमाल्ँ लोकानिमा दिशः प्रतापयत इति ।
इम उ लोका महानाम्नयः ।
तस्मात्पुरोवाते वाति । वृष्ट्यामाशासन्ते ।
यथा ह प्रत्ता न दुहीत तादृक्तद्यत्पुरोवाते वात्यथ न वर्षति ।
पशवो वै महानाम्नयः ।
गोष्ठ एव पुरीषम् ।
तदाहुः पुरीषेणाग्रे स्तोतव्यमथ महानाम्नीभिः ।
आयतनं वा अग्रेऽथ पशवः ।
आयतनं हि पशवोऽभिसमायन्तीति ।
तदु वा आहुः पशूनां वै पुरीषं भवति ।
यद्वै पशवो न स्युर्न पुरीषं स्यात् ।
यदो वै पुरुषः पशून्विन्दतेऽथ स गोष्ठं पर्यस्यते गुप्त्यै ।
तस्मान्महानाम्नीभिरेव पूर्वाभि स्तोतव्यमिति ११४