११३

ऊधः प्रथमं कुर्यादथ वत्समथ पुरुषम् ।

धीतं हैवास्याप्रत्तमनुपजीवनीयं भवति ।

अथ यं कामयेतापशु स्यादिति वत्समस्यान्तरियात् ।

पशवो वै वत्सः ।

पशूनेवास्यान्तरेति ।

अथ यं कामयेत रुद्रो ऽस्य पशूञ्छमयेदित्यन्तरा वत्सं चोधश्च पुरुषमवदध्यात् ।

रुद्रो वै पुरुषः ।

रुद्र मेवास्य तद्गोष्ठेऽवदधाति ।

सैषा मीमांसा ।

अथ यथैवासामिदं प्रज्ञातं स्तोत्रं तयैव स्तोतव्यम् ।

इयं वै प्रथमा महानाम्नी । तस्या अग्निरुपशः ।

इयं द्वितीया । तस्यै वायुरुपशः ।

असौ तृतीया । तस्यै सूर्याचन्द्र मसावुपशौ ।

तासां यो हृदावकिनो वेद त्रिर्विला हास्य गृहा भवन्ति तृप्ता इवारूक्षा अन्तरतः ।

एकारा ह वा आसां हृदावकिनः ।

तस्माद्धृद एकारमुपावसेधं पशूंस्तर्पयन्ति ।

अथ य आसामलङ्कारान्वेदालङ्कुर्वन्तोऽस्यासते गृहेष्वंशुं रुक्मं निष्कं हस्तिनमश्वतरीरथमश्वरथम् ।

स्तोमा ह वा आसामलङ्काराः ।

ता अलङ्कुर्वन्निव शोभयन्निव गायेत् ।

उप हैनमेतानि रूपाण्यक्रीतानि तिष्ठन्ते य एवं वेद ११३