असा उ आव महान् ।
तस्यैताः प्रतिनाम्नयः ।
तस्यो एवैतन्नाम परिहनति ।
सा यैषा पुरस्ताद्द्विपदोपधीयते पुरुष एव सः ।
अथ यान्युत्तराणि त्रीणि पदानि पशवस्ते ।
भसत्प्रथमा सक्थ्यौ द्व ।
पराञ्चः पशवस्सम्भवन्ति ।
तस्माद्भसत्प्रथमाख्यायते ।
अथ यान्युत्तराणि त्रीणि पदानि वत्सः प्रथमोऽथोधोऽथ पुरुषः ।
अथ यान्युत्तराणि त्रीणि पदानीमौ द्वौ शिरोग्रीवम् । एकमथ यदुत्तमं पदमुपश एव सः ।
पश्चेव द्वितीय आगच्छत्तस्मादुत्तमा द्व्युपशैवं प्रियस्य कुर्यात् ।
एतद्ध वा आसां प्रत्तमधीतमुपजीवनीयम् ।
यद्वत्सः प्रथमो भवत्यथोधोऽथ पुरुषः । प्रत्तं हैवास्याधीतमुपजीवनीयं भवति ।
अथ यं कामयेत धीतमस्याप्रत्तमनुपजीवनीयं स्यादिति ११२