१११

तानि सर्वाणि छन्दांसि सम्भृत्य तैरिन्द्रो वृत्रमहन् ।

यन्महान्तमहंस्तस्मान्महानाम्नयः ।

यदशक्नोत्तस्माच्छक्वर्यः ।

यन्मट्वियमकरोत्तस्मान्मट्वीः ।

यत्सीमानमभिनत्तस्मात्सिमाः ।

अथो हैनास्सीमत एव समृजे ।

सिम इति वै श्रेष्ठमाचक्षते ।

सिम श्रेष्ठ स्वानां भवति य एवं वेद ।

ता ह वा एता इन्द्रा एव नाम ।

इन्द्रो वै यत्र महानाम्नीषु मिथुनत्वमैच्छत । ता एनमब्रुवन्स वै नः प्रयच्छेति ।

किमिति ।

यत्त एतन्नामेति ।

ताभ्यस्तत्प्रायच्छत् ।

तस्मादेता इन्द्रा नाम ।

एतद्ध वा आसां प्रियं गुह्यं नाम यदिन्द्राः ।

स यो हासामेतद्विद्वान्परिहरत । आगामुकमेनं प्रियं भवति पश्यते प्रियम् ।

तस्मादेता महानाम्नय इति परोक्षमाख्यायन्ते १११