अथ महानाम्नयः ।
प्राणा वा अग्रे सप्त ।
तेभ्य एतां सप्तपदां शक्वरीं निरमिमीत ।
प्राणानेव सर्वमायुरेति य एवं वेद ।
सप्तपदायै षट्पदां ष्तून्संवत्सरम् ।
ऋतुभ्य आत्मानं परिदत्ते य एवं वेद ।
षट्पदायै पञ्चपदां पशून्पङ्क्तिम् ।
पशुमान्भवति य एवं वेद ।
पञ्चपदायै चतुष्पदां वाचमनुष्टुभं प्रतिष्ठितिम् ।
वाचा वदति य एवं वेद ।
चतुष्पदायै त्रिपदां तेजो ब्राह्मवर्चसं गायत्रीम् ।
तेजस्वी ब्रह्मवर्चसी भवति य एवं वेद ।
त्रिपदायै द्विपदां पुरुषम् ।
नैनं पौरुषो वधो हन्ति य एवं वेद ।
द्विपदाया एकपदां पुरुषमेव ।
अन्वञ्चाविव वै पुरुषौ ।
तस्मात्पुरुषः पुरुषं परिवेदेष्टि । पुरुषः पुरुषस्यानुचरो भवति । विन्दतेऽनुचरितॄन् ।
बहवोऽस्यानुचरा भवन्ति । नैनं पौरुष्येवावृत्तिर्विन्दति य एवं वेद ११०