ता अब्रुवंस्तृप्तीर्ह नो वेत्थ ।
ता नः प्रयच्छ । याभिर्वयं तृप्याम ।
तृप्यात्स ब्राह्मणः प्रजया पशुभिर्योऽस्मा वेदेति ।
ताभ्य एतास्तृप्तीः प्रायच्छदेतानेकारान् ।
एते ह वा आसां तृप्तयः ।
तास्संवत्सरमुषित्वापैवाक्रामन् ।
सोऽब्रवीत्कथापाक्रमिष्टेति ।
ता अब्रुवनावपनान्ह नो वेत्थ । पल्यान्ह नो वेत्थ । गोष्ठान्ह नो वेत्थ ।
तान्नः प्रयच्छ । यैर्वयमावपनवतीः पल्यवतीर्गोष्ठिनीरसाम ।
आवपनवान्पल्यवान्गोष्ठी स ब्राह्मणोऽसद्योऽस्मा वेदेति ।
ताभ्यो वाचं प्रायच्छत् ।
वाचं वावेदं सर्वं नातिरिच्यते ।
एवा ह्येवा इत्येषां वाग् । एवा ह्यग्ना इति गव्याः पशव । एवा हीन्द्रा इत्यश्व्याः पशवः ।
एवा हि पूषन्नित्यजाविकमेवैतत् ।
एवा हि देवा इति परिग्राह एवैषः १०९