ता अब्रुवन्नेकं ह नो रूपं वेत्थ ।
तन्नः प्रयच्छ । येन वयं रूपिणीरसाम ।
रूपी स ब्राह्मणोऽसद्योऽस्मा वेदेति ।
ताभ्य एतदेकं रूपं प्रायच्छदाप इति ।
एतद्ध वा आसामेकं रूपं यदापः ।
तास्संवत्सरमुषित्वापैवाक्रामन् ।
सोऽब्रवीत्कथापाक्रमिष्टेति ।
ता अब्रुवन्नेकं ह नो नाम वेत्थ ।
तन्नः प्रयच्छ । येन वयं नामिनीरसाम ।
नामी स ब्राह्मणोऽसद्योऽस्मा वेदेति ।
ताभ्य एतदेकं नाम प्रायच्छदिन्द्रा इति ।
एतद्ध वा आसामेकं नाम यदिन्द्राः ।
तास्संवत्सरमुषित्वापैवाक्रामन् ।
सोऽब्रवीत्कथापाक्रमिष्टेति १०८