ता अब्रुवन्वत्सान्ह नो वेत्थ ।
तान्नः प्रयच्छ । यैर्वयं वत्सिनीरसाम ।
वत्सी स ब्राह्मणोऽसद्योऽस्मा वेदेति ।
ताभ्यो वत्सान्प्रायच्छत् ।
अग्निमेवास्यै प्रायच्छद् । वायुमन्तरिक्षायादित्यममुष्यै ।
एते ह वा आसां वत्साः ।
तास्संवत्सरमुषित्वापैवाक्रामन् ।
सोऽब्रवीत्कथापाक्रमिष्टेति ।
ता अब्रुवन्नृषभान्ह नो वेत्थ ।
तान्नः प्रयच्छ । यैर्वयमृषभिणीरसाम ।
ऋषभी स ब्राह्मणोऽसद्योऽस्मान्वेदेति ।
ताभ्य ऋषभान्प्रायच्छदेतानथकारान् ।
एते ह वा आसामृषभाः ।
तास्संवत्सरमुषित्वापैवाक्रामन् ।
सोऽब्रवीत्कथापाक्रमिष्टेति १०७