१०६

ता अब्रुवन्रूपाणि ह नो वेत्थ ।

तानि नः प्रयच्छ । यैर्वयं रूपिणीरसाम ।

रूपी स ब्राह्मणोऽसद्योऽस्मा वेदेति ।

ताभ्यो रूपाणि प्रायच्छत् ।

यत्प्रावृषि निहतरजस्कायै प्रथमं सञ्जायमानाया अस्यै रूपं भवति । तदस्यै प्रायच्छत् ।

यद्वेव प्रावृषि निहतरजस्कस्यान्तरिक्षस्य रूपं भवति । तदमुष्यै प्रायच्छत् ।

एतानि ह वा आसां रूपाणि ।

तास्संवत्सरमुषित्वापैवाक्रामन् ।

सोऽब्रवीत्कथापाक्रमिष्टेति ।

ता अब्रुवन्नामानि ह नो वेत्थ ।

तानि नः प्रयच्छ । यैर्वयं नामिनीरसाम ।

नामी स ब्राह्मणोऽसद्योऽस्मा वेदेति ।

ताभ्यो नामानि प्रायच्छत् ।

भूस्त्वमसीतीमामब्रवीद् । भुवस्त्वमित्येतां । स्वस्त्वमित्यमूम् ।

एतानि ह वा आसां नामानि ।

तास्संवत्सरमुषित्वापैवाक्रामन् ।

सोऽब्रवीत्कथापाक्रमिष्टेति १०६