१०५

ता अब्रुवन्नैन्द्रा न्ह नो घोषान्वेत्थ ।

तान्नः प्रयच्छ । यैर्वयं घोषिणीरसाम ।

घोषी स ब्राह्मणोऽसद्योऽस्मान्वेदेति ।

ताभ्य एतानैन्द्रा न्घोषान्प्रायच्छत् ।

योऽग्नेर्घोषो यो रथस्य । तमस्यै प्रायच्छत् ।

यो वायोर्घोषो यो वयसां । तमेतस्यै प्रायच्छत् ।

यः पर्जन्यस्य घोषो यो दुन्दुभेस्तममुष्यै प्रायच्छत् ।

एते ह वा आसामैन्द्रा घोषाः ।

तास्संवत्सरमुषित्वापैवाक्रामन् ।

सोऽब्रवीत्कथापाक्रमिष्टेति ।

ता अब्रुवन्नैन्द्रा न्ह नो निक्रिळान्वेत्थ ।

तान्नः प्रयच्छ । यैर्वयं क्रीळाम ।

क्रीळात्स ब्राह्मणः प्रजया पशुभिर्योऽस्मा वेदेति ।

ताभ्य एतानैन्द्रा न्निक्रीळान्प्रायच्छदिन्द्रा इन्द्रा इन्द्रा इति ।

एते ह वा आसामैन्द्रा निक्रीळाः ।

तास्संवत्सरमुषित्वापैवाक्रामन् ।

सोऽब्रवीत्कथापाक्रमिष्टेति १०५