१०४

देवासुरा अस्पर्धन्त ।

ते देवाः प्रजापतिमुपाधावंस्तन्नश्छन्दः प्रयच्छायातयाम येनासुरानभिभवामेति ।

स तपोऽतप्यत ।

स तपस्तप्त्वात्मन्सिंसिमायदवापश्यत् ।

यदात्मन्सिंसिमायदवापश्यत्तत्सिमानां सिमात्वम् ।

ता अब्रवीत्सृज्यध्वमिति ।

केनेति ।

येन कामयध्व इति ।

तास्सिमानमेवोर्ध्वा उदीर्यासृज्यन्त ।

तद्वेवासां सिमात्वम् ।

ता अमिमीत ।

तासु त्रयं वेदमध्यादधात् ।

ता एवायच्छत् ।

तास्विमांस्त्रील्ँ लोकानभ्यादधात् ।

ता एवायच्छत् ।

सोऽब्रवीन्महद्बतासामिदं मानमभूदिति ।

यदब्रवीन्महद्बतासामिदं मानमभूदिति । तन्महामानीनां महांआनित्वम् ।

महामानयो ह वै नामैताः ।

ता महानाम्नय इति परोक्षमाख्यायन्ते ।

ता देवेभ्यः प्रायच्छत् ।

ताभिरद्य देवा अस्तुवत ।

श्वोऽशक्नुवन् ।

तद्यदद्य स्तुत्वा श्वोऽशक्नुवंस्तच्छक्वरीणां शक्वरीत्वम् ।

शक्नोति यच्छिक्षते य एवं वेद ।

ता देवा नोदयच्छन् ।

ताः प्रजापतय एव पुनः प्रायच्छन् ।

ताः प्रजापतौ संवत्सरमुषित्वापाक्रामन् ।

सोऽब्रवीत्कथापाक्रमिष्टेति १०४