१०३

अथ महानाम्नयः ।

महानाम्नीर्वा अनु प्रजाः प्रजायन्ते ।

नित्यवत्साः पशवः ।

ता एता महानाम्नयस्सं भार्याः ।

तस्मान्मनुष्या गर्भिणः कनीयश्शोभन्ते ।

सम्भार्यो हि स तेषां गर्भो नित्यः ।

नित्यवत्साः पशवोऽनुप्रजायन्ते ।

तस्मात्पशवो गर्भिणो भूयश्शोभन्ते ।

मात्यो हि स तेषां गर्भो नित्यः ।

अथ वामदेव्यम् ।

पशवो वै वामदेव्यम् ।

पशुमन्त एव भवन्त्येनेन तुष्टुवानाः ।

अथ बार्हद्गिररायोवाजीये पाङ्क्ते पाङ्क्तेऽहनि क्रियेते पाङ्क्ता वै पशवः ।

पशव एतदहः पशूनामेवावरुद्धयि ।

ते उ अथकारवच्चाध्यर्धेळं च भवतः प्रत्यक्षां शक्वरीणां रूपं शाक्वरेऽहन् ।

तेन वै रूपसमृद्धे ।

तदाहुस्स वाद्य भोगिः प्रस्नायाद्य आभ्यः पारे प्रतिष्ठां च तीर्थं च विन्देदिति ।

गावो वै शक्वर्यः ।

तासामेषा पारे प्रतिष्ठा च तीर्थं च यदथकारश्चाध्यर्धा चेळा ।

निष्ठाभिश्शक्वरीभिः पाप्मानं तरति । श्रियमश्नुते य एवं वेद ।

तदैळमच्छावाकसाम भवति ।

पशवो वा इळा ।

पशुष्वेवैतत्प्रतितिष्ठन्ति १०३