१०२

तासु शैशवम् ।

शान्तिर्वै शैशवम् ।

यच्छैशवेन स्तुवन्ति शान्त्या एव ।

अथो आहुश्शैशवेन वा इन्द्रो वृत्रं पर्याकारं शक्वरीभिरहन्निति ।

तद्वेव शैशवस्य शैशवत्वम् ।

तदु भातृव्यहा ।

हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद ।

प्रजापतेरक्ष्यश्वयत् ।

तत्परापतत् ।

सोऽकामयत पुनर्मा चक्षुराविशेदिति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै तं चक्षुः पुनराविशत् ।

अश्व एव शुचिर्भूत्वैनं पुनराविशत् ।

तज्ज्योतिर्वै चक्षुः ।

ज्योतिर्वावैनं तदाविशत् ।

तदेतच्चक्षुष्यं साम ।

अजरसं हास्य चक्षुर्न व्येति य एवं वेद १०२