१०१

तद्वेवाचक्षते साकमश्वमिति ।

कक्षीवान्प्रियमेधमपृच्छत् ।

इद्ध इन् । न दिदीपा३इत्प्रियमेधेति ।

तदस्य नामनुत ।

सोऽब्रवीत्प्रजायान्मे त्वा प्रतिब्रवदिति ।

अथ ह कक्षीवतो नाकुलिभस्त्रास प्रियङ्गुतण्डुलानां वा सिकतानां वा पूर्णा ।

तासां ह स्म संवत्सरे संवत्सर एकैकां प्रास्यति ।

तावद्धास्मा आयुर्दत्तमास ।

स उ ह नवमस्साकमश्व आजज्ञे प्रियमेधात् ।

सोऽकामयतोदित इयां । गातुं प्रतिवचनं विन्देयेति ।

स एतत्सामापश्यत् ।

तदभ्यगायत ।

ततः प्रतिवचनमपश्यत् ।

स कक्षीवन्तमभ्याद्र वत् ।

तमब्रवीदाद्र वन्तं दृष्ट्वा -इमां मे भस्त्रामुदके प्रास्यत । इममहं तं पश्यामि यो मां प्रत्युच्यातिप्रक्ष्यतीति ।

अथ हैनमभ्येव जगाम ।

स होवाच य ऋचं करोति न साम । स इद्धो न दिदीपे ।

अथ य ऋचं च साम च करोति । स इद्धस्स दिदीपे ।

एतत्त्वाहं प्रतिब्रवीम्येतन्मे पितैतत्पितामह एतत्प्रपितामह इत्या ह प्रियमेधाद्गमयाञ्चकार ।

तदेतत्तेजो ब्रह्मवर्चसं साम ।

एतेन वै स पूर्वेषां पितामहानां पाप्मानमपाहन् ।

तेजस्वी ब्रह्मवर्चसी भवत्य् । अप पूर्वेषां पितामहानां पाप्मानं हते य एवं वेद ।

यदु साकमश्वोऽपश्यत्तस्मात्साकमश्वमित्याख्यायते ।

यत्सोम चित्रमुक्थ्यम्

इति चित्रवतीर्भवन्ति चित्ररूपा वै पशवः ।

पशव एतदहः पशूनामेवावरुद्ध्यै ।

तदाहुर्यन्ति वा एते त्रिष्टुभः पवमानान्ताद्ये गायत्रीष्वन्त्यं कुर्वन्तीति ।

वृषण्वतीर्भवन्ति ।

वृषण्वद्वै त्रिष्टुभो रूपम् ।

तेन त्रिष्टुभः पवमानान्तान्न यन्ति १०१