अथाग्नेयं त्रिणिधनं सवनानां कॢप्त्यै ।
पवमानेन वै देवेभ्योऽन्नाद्यं प्रदीयते ।
तन्मध्येनिधनं भवति अन्नाद्यस्य विशेषाय ।
अग्निर्वा अकामयत अन्नाद एव श्रेष्ठ स्वानामभवत् ।
तदेतदन्नाद्यस्यावरुद्धिस्साम ।
अवान्नाद्यं रुन्द्धेऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद ।
यद्वग्निरपश्यत्तस्मादाग्नेयं त्रिणिधनमित्याख्यायते १००