ओघो वा इमाल्ँ लोकान्निरमार्ट् ।
सोऽमन्यत मनुरिदं वावेदमभूदिति ।
सोऽकामयतोदित इयां गातुं प्रतिष्ठां विन्देयेति ।
स एते सामनी अपश्यत् ।
ताभ्यामस्तुत ।
ते एनं हिरण्मय्यौ नावौ भूत्वोपाप्लवेताम् ।
तयोः प्रत्यतिष्ठत् ।
ते एनमुदपारयेताम् ।
ततो वै स गातुं प्रतिष्ठां अविन्दत ।
विन्दते गातुं प्रतिष्ठां य एवं वेद ।
यदु मनुरपश्यत्तस्मान्मानवे इत्याख्यायेते ।
अथ वाम्रमभ्यारम्भो यज्ञस्य प्रत्यपसारः ।
अभ्येव षष्ठमहरारभते प्रति चतुर्थमपधावति ।
अभ्यारम्भैर्वै देवा असुरान्यज्ञादन्तरायन् ।
वम्रो वैखानसः पशुकामस्तपोऽतप्यत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
स एतां मध्य इळामुपेत्याध्यर्धामिळामुपरिष्टादुपैत् ।
पशवो वा इळा ।
भूमो वा अध्यर्धेळा ।
ततो वै स भूमानमभिपूर्वं पशूनामवारुन्द्ध ।
तदेतत्पशव्यं साम ।
भूमानमेवाभिपूर्वं पशूनामवरुन्द्धे य एवं वेद ।
यदु वम्रो वैखानसोऽपश्यत्तस्माद्वाम्रमित्याख्यायते ९९