०९८

अथ मानवं पदनिधनं राथन्तरम् ।

तस्माद्रा थन्तरेऽहन्क्रियते ।

मनुर्वा अकामयत बहुः प्रजया पशुभिः प्रजायेय । मानवीः प्रजास्सृजेयेति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै स बहुः प्रजया पशुभिः प्राजायत ।

ता इमा मानवीः प्रजाः ।

बहुरेव प्रजया पशुभिः प्रजायते य एवं वेद ।

अथो आहुस्ता एवास्य प्रजास्सृष्टा रक्षांस्यजिघांसन्निति ।

सोऽकामयताप रक्षांसि हनीयेति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते ।

दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः

त्वेषासो अग्नेरमवन्तो अर्चयो भीमासो न प्रतीतये ।

रक्षस्विनस्सदमिद्यातुमावतो विश्वं समत्रिणं दह

एवासां रक्षांस्यपाहन्निति ।

तदु रक्षसामपहतिः ।

अप रक्षः पाप्मानं हते य एवं वेद ९८