०९७

सोम उ ष्वाणस्सोतृभिर्

इति सिमानां रूपम् ।

अधि ष्णुभिरवीनाम्

इति गोमतीः पशुमतीर्भवन्ति पशूनामेवावरुद्ध्यै ।

पशवो ह्येतदहः ।

समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशत

इति समुद्र वतीर्भवन्ति ।

आपो ह्येतदहः ।

ता न्यूनाक्षरा भवन्ति ।

सप्ताक्षराण्येकानि पदानि भवन्ति । नवाक्षराण्येकान्य् । एकादशाक्षराण्येकानि । द्वादशाक्षराण्येकानि ।

तदेतदभिपूर्वमेव शक्वरीणां रूपमुपगच्छन्ति ।

तास्वानूपमनुतोदवत्सिमानां रूपम् ।

अनुतुन्नाद्वै प्रजाः पशवः प्रजायन्ते ।

प्र प्रजया पशुभिर्जायते य एवं वेद ।

अनूपो वै धीतोनिरकामयतोभयं ब्रह्म च क्षत्रं चावरुन्धीय । राजा सन्नृषि स्यामिति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै स उभयं ब्रह्म च क्षत्रं चावारुन्द्ध । राजा सन्नृषिरभवत् ।

उभयमेव ब्रह्म च क्षत्रं चावरुन्द्धे । राजा सन्नृषिर्भवति य एवं वेद ।

यद्वनूपो धीतोनिरपश्यत्तस्मादानूपमित्याख्यायते ९७