स क्रुद्धो जनमगच्छत् ।
अनृतं मा व्यवोचन्निति ।
तेषां हेक्ष्वाकूणामग्नेर्हरोऽपाक्रामत् ।
यं सायमोदनमध्यदधुः । प्रातस्सोऽपच्यत ।
यं प्रातस्सायं सः ।
ते होचुर्ब्राह्मणं वा अनार्यमपाराम ।
तेषां नोऽग्नेर्हरोऽपाक्रमीत् ।
एतैनं अनुमन्त्रयामहा इति ।
तमन्वमन्त्रयन्त ।
स आगच्छद्यथा राज्ञा ब्राह्मणोऽनुमन्त्र्यमाण आगच्छेदेवम् ।
स आगत्याकामयत पश्येयमिदमग्नेर्हर इति ।
स एतत्सामापश्यत् ।
तदाभ्यगायत ।
तदपश्यत्पिशाची वा इयं त्रियरुणस्य जाया ।
सैनत्कशिपुना छादयित्वाध्यास्त इति ।
तदभिव्याहरत् ।
कुमारं माता युवतिस्समुब्धं गुहा बिभर्ति न ददाति पित्रे ।
अनीकमस्य न मिनज्जनासः पुरः पश्यन्ति निहितमरतौ
कमेतं त्वं युवते कुमारं पेषी बिमर्षि महिषी जजान ।
पूर्वीर्हि गर्भश्शरदो ववर्धापश्यं जातं यदसूत माता
वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा ।
प्रादेवीर्मायास्सहते दुरेवाश्शिशीते शृङ्गे रक्षसे विनिक्षे
उत स्वानासो दिवि षन्त्वग्नेस्तिग्मायुधा रक्षसे हन्तवा उ ।
मदे चिदस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः
इत्येवैनामिदमग्नेर्हर ऊर्ध्वमुद्द्रवत्सर्वां प्रादहत् ।
ततो वै ते यथायथमग्नेर्हरो व्यहरन्त ।
यथायथमेभ्योऽग्निरपचत् ।
तदेतद्दीप्तिर्ब्रह्मवर्चसं साम ।
एतेन वा अग्नेर्हरोऽपक्रान्तमन्वविन्दन् ।
तेजस्वी ब्रह्मवर्चसी दीप्तिमान्भवति य एवं वेद ।
तदध्यर्धेळं भवति प्रत्यक्षं शक्वरीणां रूपं शाक्वरेऽहन् ।
तेन वै रूपसमृद्धम् ।
यदु वृशोऽपश्यत्तस्माद्वार्शमित्याख्यायते ९६