०९५

तौ वै पृच्छावहा इति ।

तौ हेक्ष्वाकूनेव प्रश्नमेयतुः ।

ते हेक्ष्वाकव ऊचुर्यो वाव रथं सङ्गृह्णाति स रथस्येशे ।

त्वमेव हन्तासीति वृशमेव पराब्रुवन् ।

सोऽकामयतोदित इयां । गातुं नाथं विन्देय ।

समयं कुमारो जीवेदिति ।

स एतत्सामापश्यत् ।

तेनैनं समैरयद्

आ ते दक्षं मयोभुवम्

इति ।

प्राणा वै दक्षाः ।

प्राणानेवास्मिंस्तददधात् ।

वह्निमद्या वृणीमहे ।

पान्तमा पुरुस्पृहमा मन्द्र मा वरेण्यमा विप्रमा मनीषिणम् ।

पान्तमा पुरुस्पृहमा रयिमा सुचेतनमा सुक्रतो तनुष्वा ।

पान्तमा पुरुस्पृहमिति ।

पान्तो वै पुरुषः ।

तदेनं तत्समैरयत् ।

तदेतद्भेषजं प्रायश्चित्तिस्साम ।

भेषजं वै तत्प्रायश्चित्तिमकुरुत ।

भेषजमेवैतेन प्रायश्चित्तिं कुर्वते ।

तदु कामसनि ।

एतं वै स काममकामयत ।

सोऽस्मै कामस्समार्ध्यत ।

यत्काम एवैतेन साम्ना स्तुते । समस्मै स काम ऋध्यते ९५