अथ वार्शम् ।
वृशो वै जानस्त्रियरुणस्य त्रैवृष्णस्यैक्ष्वाकस्य राज्ञः पुरोहित आस ।
अथ ह स्म ततः पुरा राजभ्यः पुरोहिता एव रथान्सङ्गृह्णन्त्यौपद्र ष्ट्र्याय नेदयं पापं करवदिति ।
तौ हाधावयन्तौ ब्राह्मणकुमारं पथि क्रीडन्तं रथचक्रेण विचिच्छिदतुः ।
इतरो हाधावयन्नभिप्रयुयावापेतर आययाम ।
स हाधिगत्य न शशाकापायन्तुम् ।
तं ह तदेव विचिच्छिदतुः ।
तस्मिन्होदाते त्वं हन्तासि त्वं हन्तासीति ।
स ह वृशोऽभीशून्प्रकीत्यावतिष्ठन्नुवाच त्वं हन्तासीति ।
नेति होवाच ।
यो वै रथं सङ्गृह्णाति स रथस्येशे ।
त्वं हन्तासीति ।
नेति हेतर उवाचाप वा अहमायांसं । स त्वमभिप्रायौषीस् । त्वमेव हन्तासीति ९४