०९३

अथ शाकलं ।

शकलो वै पञ्चममहरपश्यद्रा थन्तरं रूपेण ।

तस्माद्रा थन्तरेऽहन्क्रियते ।

शकलो वा अन्नाद्यकामस्तपोऽतप्यत ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै सोऽन्नाद्यमवारुन्द्ध ।

तस्य वा एतस्यास्ति यथैव प्रयच्छेदेवम् ।

तद्धिङ्कारवद्भवति ।

अन्नं वै हिङ्कारः ।

हुमिति वा अन्नाद्यं प्रदीयते ।

तदेतदन्नाद्यस्यावरुद्धिस्साम ।

अवान्नाद्यं रुन्धेऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद ।

अथो यदेवैतस्मिन्नहन्प्राचीनं शक्वरीभ्यः क्रूरमिव क्रियते । तदेवैतेन हिङ्कारेण शमयन्ति ।

यदु शकलोऽपश्यत्तस्माच्तस्माच्छाकलमित्याख्यायते ९३