०९२

इन्द्रो वै सिमा नासघ्नोत् ।

सोऽकामयत सिमास्सघ्नुयामिति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै स सिमा असघ्नोत् ।

तद्यदेतत्साम भवति । सिमानामेव सग्ध्यै ।

तस्य त्रिः प्रस्तौति । सकृत्प्रतिहरति । त्रिर्निधनमुपयन्ति ।

तत्सप्त सम्पयन्ते ।

सप्तपदा वै शक्वर्यः ।

शाक्वराः पशवः ।

पच्छो वावैनांस्तद्दाधार ।

पशवश्शक्वर्यः ।

यण्वसन्तनि पुरस्ताद्भवति । सन्तन्युपरिष्टात् । पशूनामेव परिगृहीत्यै ।

स यथा वागरया वा रज्ज्वा वा व्रजं परितनुयादेवमेवैतत्पशून्परिगृह्णीतेऽपरावापाय ।

नास्य वित्तं परोप्यते य एवं वेद ।

आपो वै शक्वर्यः ।

यण्वसन्तनि पुरस्ताद्भवति । सन्तन्युपरिष्टाद् । अपामेव परिगृहीत्यै ।

तस्मादापः परिगृहीता स्यन्दन्ते ।

कूले ह खलु वा एतेऽपाम् ।

यद्ध वा एते न स्यातामोध इदं सर्वं निर्मृज्य यथापां वार्त्रं दिह्यात्तादृगेवैतदनिर्मार्गाय ।

तस्यैतस्य यण्वसन्तनिनो मध्य इळामुपेत्याध्यर्धामिळामुपरिष्टादुपयन्ति । प्रत्यक्षं शक्वरीणां रूपं शाक्वरेऽहन् ।

तेन वै रूपसमृद्धम् ९२