०९१

अर्षा सोम द्युमत्तम

इति माध्यन्दिनस्य पवमानस्यार्षण्वतीर्गायत्र्यो भवन्ति ।

अर्षेति रथन्तरस्य रूपम् ।

राथन्तरमेतदहः ।

अभि द्रो णानि रोरुवद्

इत्यभीति भवति रथन्तरस्यो एव रूपम् ।

अप्सा इन्द्रा य वायव

इत्यप्सुमतीर्भवन्ति ।

आपो ह्येतदहः ।

वरुणाय मरुद्भ्य इति मरुत्वातीर्भवन्ति ।

मरुत्वद्वै मध्यन्दिनस्य रूपम् ।

मध्यन्दिनस्यैवैतद्रू पान्न यन्ति ।

इषं तोकाय नो दधदस्मभ्यं सोम विश्वत

इति विश्ववतीर्भवन्ति ।

वैश्वदेवं ह्येतदहः ।

आ पवस्व सहस्रिणम्

इति सहस्ररूपं महानाम्नीनामुपगच्छन्ति ।

पशवो हि महानाम्नयः ।

तासु गायत्रमुक्तब्राह्मणम् ।

अथ यण्वसन्तनि ।

पञ्चमाद्वै देवा अह्नष्षष्ठमहर्निरमिमत ।

छिद्र मिव वै पञ्चममहः ।

यद्यण्वसन्तनिना माध्यन्दिनस्य पवमानमुखे स्तुवन्ति अह्न एव सन्तत्या अह्नोऽछिद्र तायै ।

प्रतितिष्ठति य एवं वेद ।

प्रजापतिः पशूनसृजत ।

तेऽस्मात्सृष्टा अप क्रामन् ।

सोऽकामयतात्मन्पशून्यच्छेयमिति ।

स एतत्सामापश्यत् ।

तेनात्मन्पशूनयच्छत् ।

यदात्मन्पशूनयच्छत्तद्यण्वस्य यण्वत्वम् ।

प्रजापतिरेष यदुद्गाता ।

स यण्वेनैवात्मन्पशून्यच्छते ।

एतद्विषुवत्को वै द्वादशाहो यत्पञ्चममहः ।

य । न्वसन्तनि पुरुस्ताद्भवति । सन्तन्युपरिष्टात् ।

यण्वसन्तनिनैव पूर्वं त्र्यहं सन्तन्वन्ति । सन्तनिनोत्तरम् ९१