०९०

तामाहुरारम्भणतस्तृचस्य कार्या ।

मुखतो वै रेतस्सिक्तं । तदितः प्रजायते ।

तद्वै रेतो यदितस्सिच्यते ।

अन्नाद्धि रेतस्सिच्यत इति ।

तदाहुरुपरिष्टादेव कार्या -इदं वै प्रजननम् । इतः प्रजाः प्रजायन्ते यतः प्रजाः प्रजायन्ते ततः प्रजायामहा इति ।

तस्मादुपरिष्टादेव कार्या ।

इन्द्रा ग्नी युवामिम

इत्यैन्द्रा ग्निं भवति ।

अभि स्तोमा अनूषते

ति बहून्स्तोमानभिवदति ।

एकस्तोमान्यन्यान्यहानि भवन्ति ।

अथैतत्त्रिष्टोमम् ।

तस्माद्

अभि स्तोमा अनूषते

ति बहून्स्तोमानभिवदति ।

पिबतं शम्भुवा सुतं

या वा सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।

इन्द्रा ग्नी ताभिरा गतं

ताभिरा गच्छतं नरोपेदं सवनं सुतम् ।

इन्द्रा ग्नी सोमपीतये

इत्येकदेवत्यान्यन्यानि स्तोत्राणि भवन्त्य् । अथैतद्द्विदेवत्यम् ।

यथोभयापदी प्रतितिष्ठेत्तादृक्तत् ।

त्रिणव स्तोमो भवति ।

त्रिणवा इमे लोकाः ।

एष्वेवैतल्लोकेषु प्रतितिष्ठन्तो यन्ति ९०