०८९

उत्तिष्ठन्नोजसा सहे

त्यैन्द्रं भवति ।

त्रिणवो वै स्तोम ओजो वीर्यम् ।

तमेवैतत्प्रत्यक्षमनुवदन्ति ।

अनु त्वा रोदसी उभे

इतीमे ह वाव रोदसी ।

एते एवैतदभिवदति ।

स्पर्धमानमददाताम्

इत्येते वा एनं तत्स्पर्धमानमन्वददाताम् ।

इन्द्र यद्दस्युहाभव

इति घ्नद्वत् ।

एतद्वै यजमानस्य स्वं स्तोत्रं यद्ब्रह्मणः ।

स्व एव तदायतने यजमानस्य सर्वं पाप्मानं घ्नन्ति ।

वाचमष्टापदीमहं नवस्रक्तिमृतावृधम् ।

इन्द्रा त्परि तन्वं ममे

इति गायत्री वै वागष्टापदी ।

तस्यै त्रिवृदेव स्तोम स्रक्तयः ।

एतद्वै दैव्यं परमं मिथुनं प्रजननं यत्त्रिवृच्च स्तोमो गायत्री च छन्दः ।

दैव्यमेव तत्परमं मिथुनं प्रजननं दधति यजमानस्य प्रजात्यै ८९