वातोपजूत इषितो वशं अनु तृषु यदन्ना वेविषद्वितिष्ठसे ।
आ ते यतन्ते रथ्यो यथा पृथक्शर्धांस्यग्ने अजरस्य धक्षतः
इति ।
यदा वा अग्निं वात उपवाजयत्यथ स महद्दीप्यते ।
तदेतद्दीप्तिरेव ब्रह्मवर्चसस्य रूपम् ।
मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतमं मतिम् ।
त्वामर्भस्य हविषस्समानमित्त्वां महो वृणते नान्यं त्वत्
इति यच्च ह वा अर्भकं हविर्यच्च महस्तस्य सर्वस्याग्निमेव होतृत्वाय वृणुते ।
पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण ।
मित्र वंसि वां सुमतिमिति मैत्रावरुणं भवति दुरिष्टस्यैवावेष्ट्यै ।
यद्ध वै किं च यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तस्य ह वा एतदवेष्ट्यै ।
ता वां सम्यगद्रुह्वाणेषमश्याम धाम च ।
वयं वां मित्रा स्याम
पातं नो मित्रा पायुभिरुत त्रायेथां सुत्रात्रा ।
साह्याम दस्यूंस्तनूभिः
इत्याशिषमेवैतेनाशास्ते ८८