भूरिति व्याहृतिः ।
तदयं लोकोऽग्निर्देवता गायत्री छन्दस्त्रिवृत्स्तोमो रथन्तरं साम वसवो देवता वनस्पतयश्चौषधयश्च ।
भुव इति व्याहृतिः ।
तदिदमन्तरिक्षं वायुर्देवता जगती छन्दस्सप्तदश स्तोमो वामदेव्यं साम रुद्रा देवतापश्च प्राणभृच्च ।
स्वरिति व्याहृतिः ।
तदसौ लोक आदित्यो देवता त्रिष्टुप्छन्दः पञ्चदश स्तोमो बृहत्सामादित्या देवता चन्द्र माश्च नक्षत्राणि च ।
एतदिमे लोकास्त्रिणवा भवन्ति ।
तदाहुर्मिथुनानि चत्वार्यहान्य् । अमिथुनं पञ्चममहः ।
आचतुरं वाव मिथुनं प्रजननम् ।
तद्यत्
तव श्रियो वर्षस्येव विद्युत
इत्याग्नेयमाज्यं भवति ।
तेनैव मिथुनं पञ्चममहः क्रियते ।
तवेति पुंसो रूपं । श्रिय इति स्त्रियै ।
वर्षस्येवेति पुंसो । विद्युत इति स्त्रियै ।
अग्न इति पुंस । उषसामिवेति स्त्र्यै ।
यदोषधीरिति स्त्रिया । अभिसृष्ट इति पुंसः ।
अभिपूर्वमेवैतन्मिथुनं प्रजननं दधति यजमानस्य प्रजात्यै ८७