०८६

प्र सोमासो अधन्विषुः पवमानास इन्दवः ।

श्रीणाना अप्सु वृञ्जते

अभि गावो अधन्विषुरापो न प्रवता यतीः ।

पुनाना इन्द्र माशत

इत्याप आप इति भवत्यापो ह्येतदहः ।

प्र पवमान धन्वसि सोमेन्द्रा य मादनः ।

नृभिर्यतो वि नीयसे

इति सप्तर्चं भवति ।

सप्त वै प्राणाः ।

प्राणैरेवैतत्समृध्यमाना यन्ति । प्राणेषु प्रतितिष्ठन्तः ।

तदाहुर्यत्सप्तर्चं सप्तमस्याह्नो रूपमथ कस्मात्पञ्चमेऽहन्क्रियत इति ।

स ब्रूयात्सप्तपदा वै शक्वर्यस् । सप्त ग्राम्याः पशवस् । सप्त चतुरुत्तराणि छन्दांसि । सप्त मुख्याः प्राणास् । सप्तविंशतिर्दिव्यानि नक्षत्राणि । सप्तविंशमेतदहर् । एतस्यैव सर्वस्यावरुद्ध्या एतस्योपाप्त्या इति ।

उत्तरं सप्तर्चं भवति ।

अभिपूर्वमेवैतत्प्राणैस्समृध्यमाना यन्ति ।

चौत्रृचं भवति चतुष्पदा वै पशवः ।

पशव एतदहः पशूनामेवावरुद्ध्यै ।

पर्यासो भवति प्रजानां धृत्यै पशूनामुपस्थित्यै ।

त्रिणव स्तोमो भवति ।

त्रिणवा इमे लोकाः ।

एष्वेवैतल्लोकेषु प्रतितिष्ठन्तो यन्ति ८६