ता एता भवन्ति जगत्यस्त्रिष्टुब्वर्णा अह्नो रूपेण समृद्धाः ।
यत्र वा अहारूपेण समृद्धयन्ति सं तत्रर्द्यते ।
समस्मा ऋध्यते य एवं वेद ।
पवमानस्य विश्वविद्
इत्यनुरूपो भवति ।
विश्वविदिति सिमानां रूपम् ।
तदाहुस्साम्न एव रूपं स्तोत्रियेणारभन्तेऽनुरूपेणाह्न इति ।
स्तोत्रियानुरूपौ भवतः ।
प्राणो वै स्तोत्रियोऽपानोऽनुरूपः ।
प्राणापानाभ्यामेवैतत्समृध्य प्रयन्ति ।
प्र ते सर्गा असृक्षत सूर्यस्येव न रश्मय
इति सर्गश इव वै पशवस्सृज्यन्ते ।
पशवश्शक्वर्यः ।
केतुं कृण्वन्दिवस्परि विश्वा सूपाभ्यर्षसी
त्यभीति भवति रथन्तरस्य रूपम् ।
राथन्तरमेतदहः ।
समुद्र स्सोम पिन्वस इति समुद्र वतीर्भवन्त्यापो ह्येतदहः ।
जज्ञानो वाचमिष्यसी
ति जायते वै पूर्वेणाह्ना ।
जज्ञान एवैतेन तस्माज्
जज्ञानो वाचमिष्यसी
ति भवति ।
पवमान विधर्मणि ।
क्रन्दं देवो न सूर्यः
इति सौर्यं रूपं महानाम्नीनामुपगच्छन्ति ।
सौर्या हि महानाम्नयः ८५