गोवित्पवस्व वसुविद्धिरण्यविद्
इति सिमानां रूपम् ।
करिष्यद्धरिवत्त्रैष्टुभं रूपम् ।
तस्मादेतास्त्रैष्टुभेऽहन्क्रियन्ते ।
रेतोधा इन्दो भुवनेष्वर्पित
इत्यृषभमेवैतद्रे तोधां प्रातस्सवने महानाम्नीष्वपिसृजन्ति प्रजननाय ।
त्वं सुवीरो असि सोम विश्वविद्
इति सिमानां रूपम् ।
तं त्वा विप्रा उप गिरेम आसत इति ब्राह्मणा ह वै विप्रास् । त एवैनं तद्गिरोपासते ।
त्वं नृचक्षा असि सोम विश्वत
इति विश्वत इति सिमानां रूपम् ।
पवमान वृषभ ता वि धावसी
त्यृषभमेवैतत्प्रातस्सवने महानाम्नीष्वपिसृजन्ति प्रजननाय ।
स नः पवस्व वसुमद्धिरण्यवदिति पशवो वै वसु सुवर्णम् ।
असुवर्णमिति वा आहुरपशुम् ।
पशवश्चक्वर्यः ।
वयं स्याम भुवनेषु जीवस
इत्याशिषमेवैतेनाशास्ते ।
ईशान इमा भुवनानि वीयस
इति वीति सिमानां रूपम् ।
युजान इन्दो हरितस्सुपर्ण्य इति शक्वर्यो वै हरितस्सुपर्ण्यः ।
ता एवैतत्प्रातस्सवने युज्यन्ते ।
ता युक्ता माध्यन्दिने सवनेऽभ्यारोहन्ति ।
तास्ते क्षरन्तु मधुमद्घृतं पर इति पशवो वै मधु क्षीरं दधि सर्पिरेतत्क्षरन्ति पशवश्शक्वर्यः ।
तव व्रते सोम तिष्ठन्तु कृष्टय
इति सोमस्य ह वा इदं व्रतं सर्वमनूपतिष्ठते ८४