तासु वासिष्ठम् ।
वसिष्ठो वा अकामयत विराजं पश्येयं । तामवरुन्धीयेति ।
स प्रस्तुवन्नेवैतां दशाक्षरां विराजमपश्यत् ।
तामुपैत् । तामवारुन्द्ध ।
तदेतद्विराजोऽन्नाद्यस्यावरुद्धिस्साम ।
अव विराजमन्नाद्यं रुन्द्धेऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद ।
यदु वसिष्ठोऽपश्यत्तस्माद्वासिष्ठमित्याख्यायते ।
तद्वेवाचक्षते वसिष्ठस्यप्रियमिति ।
वसिष्ठो वै जीतो हतपुत्रोऽकामयत बहुः प्रजया पशुभिः प्रजायेयेति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स बहुः प्रजया पशुभिः प्राजायत ।
सोऽब्रवीत्प्रियं वावेदं ममाभूद्येन प्रियां प्रजामवारुत्सीति ।
तदेव प्रियस्य प्रियत्वम् ।
तदेतत्प्रजननं साम ।
बहुः प्रजया पशुभिः प्रजायते य एवं वेद ।
यदु वसिष्ठोऽपश्यत्तस्माद्वसिष्ठस्यप्रियमित्याख्यायते ।
तदैळमच्छावाकसाम भवति ।
पशवो वा इळा ।
पशुष्वेवैतत्प्रतितिष्ठन्ति ।
अथ षोडशी ।
प्रातस्सवनभाजनं प्रथममहर् । माध्यन्दिनभाजनं द्वितीयं । तृतीयसवनभाजनं तृतीयम् ।
अथैतदुक्थभाजनम् ।
उक्थानां वा एष एको यत्षोडशी ।
तद्यदत्र षोडशी क्रियते स्वेनैवैनं तदायतनेन समृद्धयन्ति ।
तेनैभ्यस्समृद्धेन स्वायां जनतायामृद्धुकं भवति ८३