०८२

तासु सैन्धुक्षितम् ।

सिन्धुक्षिद्वा अन्तं वाचोऽपश्यत् ।

वाचमेतेनाह्ना समिच्छन्ति तामेवैतत्संविन्दन्ति ।

सिन्धुक्षिद्वै भारतो राजा ज्योगपरुद्धश्चरन्सोऽकामयताव स्व ओकसि गच्छेयमिति ।

सिन्धुं हैव चचार ।

सास्य सिन्धुक्षित्ता ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै सोऽव स्व ओकस्यगच्छत् ।

तदेतद्कामसनि साम ।

एतं वै स काममकामयत ।

सोऽस्मै कामस्समर्ध्यत ।

यत्काम एवैतेन साम्ना स्तुते समस्मै स काम ऋध्यते ।

तदु श्रीरेव राज्यम् ।

राज्यं वै स तदगच्छत् ।

अश्नुते श्रियं गच्छति राज्यं य एवं वेद ।

यदु सिन्धुक्षिद्भारतो राजापश्यत्तस्मात्सैन्धुक्षितमित्याख्यायते ।

वयमु त्वामपूर्व्ये

त्यपूर्वामिव ह्येतर्हि तन्वमगच्छन् ।

तासु सौभरं बृहतस्तेजः ।

व्यवप्लीनातीव वै वैराजं यज्ञम् ।

तत्सौभरेणोत्तभ्नुवन्ति बृहतस्तेजसा ।

तदूकारणिधनं भवति ।

एतद्वै प्रत्यक्षं बृहतो रूपं यदूकारो यदीकारः ।

तेन वै रूपसमृद्धम् ।

इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम्

इति ज्यैष्ठ्यमिव ह्येतर्ह्यगच्छन् ।

अथो तृतीयसवन एवैतद्र सं मदं दधति ८२