तासु वात्सप्रम् ।
वत्सप्रियं वै भालन्दनं प्रतिसत्रिणोऽबाधन्त स्तेनस्ते पितेति ।
सोऽकामयत श्रद्धां विन्देयोप मां ह्वयेरन्निति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स श्रद्धामुपहवमविन्दत ।
श्रद्धां विन्दामहा इति सत्रमासते ।
श्रद्धामेव विन्दन्ते ।
वैराजस्य ह खलु वा एतदनुरूपं साम ।
यथा ह वै वैराजस्य स्तोभाः पदवृत्तय एवं ह वै वात्सप्रस्य स्तोभाः पदवृत्तयः ।
प्रजा ह वा एषा वैराजस्य ।
आ हास्यानुरूपः प्रजायां जायते य एवं वेद ।
एतद्ध वा एनं तदुपजुहुविरेऽनुरूपं वैराजस्यासृष्टेति ।
तदनुतुन्नं भवति ।
अनुतुन्नाद्वै प्रजाः पशवः प्रजायन्ते ।
अनुतुन्नमेतस्य वैराजस्याह्नो रूपम् ।
तेन वै रूपसमृद्धम् ।
यदु वत्सप्रीर्भालन्दनोऽपश्यत्तस्माद्वात्सप्रमित्याख्यायते ।
अथ यज्ञायज्ञीयमुक्तब्राह्मणम् ।
अग्निं वो वृधन्तम्
इति वृद्धं ह्येतदहर्यद्बार्हतम् ८१