तासु नानदम् ।
नानदेन वा इन्द्रो वृत्रं नानद्यमानमहन् ।
यन्नानद्यमानमहंस्तन्नानदस्य नानदत्वम् ।
नानद्यमानमेवैतेन द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद ।
तस्य षोडशभिरक्षरैः प्रस्तौति ।
षोडशिनमेवैतेन प्रत्यक्षमारभन्ते ।
औपोदितिर्ह स्माह गौपालयो विशालं लिबुजयाभ्यधात् ।
अनुष्टुभि नानदमकृद्गौरिवीतेन षोडशिनमतुष्टुवन् । न श्रियावपद्य इति ।
न ह वै श्रियावपद्यते य एवं वेद ।
तदु श्वस्तनवदपि प्रजया उपक्ळ्प्तम् ।
अथान्धीगवं वैराजं साम वैराजेऽहन्क्रियते । वैराज एवान्नाद्यस्यावरुद्ध्यै ।
तस्यैतां दशाक्षरां विराजं मध्यत उपयन्ति दशाक्षरा विराड् । अन्नं विराड् विराज एवान्नाद्यस्यावरुद्ध्यै ।
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः ।
जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्र स्य जनितोत विष्णोः
इति जनिता जनितेति भवति ।
षोडशिनमेवैतत्तृतीयसवनात्प्रजनयन्ति ।
यथा बाधस्व बाधस्व जायस्व जायस्वेत्येवमेवैतदभिपूर्वं तृतीयसवनात्षोडशिनं प्रजनयन्ति ८०