तास्वातीषादीयम् ।
प्रजापतिः प्रजा असृजत ।
ता अस्य सृष्टा अताम्यन् ।
सोऽकामयत न म इमाः प्रजास्ताम्येयुरिति ।
स एतत्सामापश्यत् ।
तेनैना अभ्यमृशत् ।
तास्समानन् ।
प्रेव मीयन्ते चतुर्थेनाह्नानुष्टुभं हि गच्छन्ति ।
अनुष्टुब्वै परा ।
परावत्समेवैतेनानन्ति ।
तस्मादु हैतस्य साम्न आतमितोर्निधनमुपेयात्सर्वस्यायुषोऽवरुद्ध्यै ।
तदाहुरताम्यन्नेवोपेयात् ।
यदा वै ताम्यत्यथ म्रियते ।
तस्मादताम्यन्नेवोपेयादिति ।
देवा वै स्वर्गकामास्तपोऽतप्यन्त ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तदेनान्साद एव भूत्वा स्वर्गं लोकमवहत् ।
तेऽब्रुवन्नेति वै साद इति ।
यदब्रुवन्नेति वै साद इति । तदेतीषादीयस्येतीषादीयत्वम् ।
त उ स्वर्गं लोकं गत्वाब्रुवन्नात इव बत स्वर्गे लोके सदामेति ।
तद्वेवातीषादीयस्यातीषादीयत्वम् ।
तदेतत्स्वर्ग्यं साम ।
अश्नुते स्वर्गं लोकं य एवं वेद ।
अथैता भवन्ति
पुरोजिती वो अन्धस
इति विराजोऽनुष्टुभो वैराजेऽहन् । विराज एवान्नाद्यस्यावरुद्ध्यै ।
अथो यथान्यौ नवतरौ चक्रावुपास्येद् । एवमेवैतामनुष्टुभं त्र्यहमुखेषु पर्याहरन्ति स्वर्गस्य लोकस्य समष्ट्यै ७९