०७८

तासु बृहत्कं बृहतामेकम् ।

एतेन ह वा एतदहर्बार्हतं क्रियते ।

देवा वै स्वर्गकामास्तपोऽतप्यन्त ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

तदेनान्बृहदेव भूत्वा स्वर्गं लोकमवहत् ।

तेनाब्रुवन्स्वर्गं लोकं गत्वा बृहद्वाव न इदं कमभूद्येन स्वर्गं लोकं व्यापामेति ।

तदेव बृहत्कस्य बृहत्कत्वम् ।

तदेतत्स्वर्ग्यं साम ।

बृहदस्मै कं भवत्य् । अश्नुते स्वर्गं लोकं य एवं वेद ।

सोमः पुनान ऊर्मिणा अव्यं वारं वि धावति ।

अग्रे वाचः पवमानः कनिक्रदत्

इत्यग्रमिव भवति ।

अग्रं ह्येतदहर्यद्बार्हतम् ।

धीभिर्मृजन्ति वाजिनमिति मृजन्तीव वै जातम् ।

जायत उ एतेनाह्ना ।

असर्जि कलशं अभि मीढ्वान्सप्तिर्न वाजयुः ।

पुनानो वाचं जनयन्नसिष्यदत्

इति जनद्वतीर्भवन्ति ।

षोडशिनमेवैतत्तृतीयसवनात्प्रजनयन्ति ।

सवनात्सवनाद्ध वै षोडशिनं प्रजनयन्ति ७८