अङ्रिरस स्वर्गकामास्सत्रमासत ।
ते स्वर्गं लोकं न प्राजानन् ।
स श्वित्र आङ्गिरसस्समिद्वारः परैत् ।
तमूर्णायुर्गन्धर्व एतेन साम्नोपरिष्टादभ्यवपत्याब्रवीत्साम वा इदं स्वर्ग्यं । तेन स्तुध्वं । तेन स्तुत्वैव स्वर्गं लोकं प्रज्ञास्यथ ।
मम त्वेव साम ब्रूतात् ।
यस्त्वा पृच्छेत्कस्त इदमवोचदित्य् । ऊर्णायुर्मेऽवोचदित्येव ब्रूतात् ।
मैव मदन्यस्य वोच इति ।
स पुनरेत्याब्रवीत्साम वा इदं स्वर्ग्यम् ।
तेन स्तवामहै ।
तेन स्तुत्वैव स्वर्गं लोकं प्रज्ञास्याम इति ।
तमब्रुवन्कस्त इदमवोचदिति ।
अहमेवादर्शमित्यब्रवीत् ।
तेनास्तुवत ।
तेन स्तुत्वैव स्वर्गं लोकं प्राजानन् ।
तेषां स्वर्गं लोकं यतां सोऽहीयत ।
अनृतं ह्यब्रवीत् । स एष श्वित्रोऽभवत् ।
एते ह वा अहयो यच्छ्वित्राः ।
यदहीयत तदहीनामहित्वम् ।
अथ हान्ये सर्पा एव ।
तस्मादु ह यस्मादेवानुब्रुवीत । तं ब्रूयादमुष्मादन्ववोच इति ।
अथो ह सत्यमेव विवदिषेत् ।
तदेतत्स्वर्ग्यं साम ।
अश्नुते स्वर्गं लोकं य एवं वेद ।
त्वं ह्यङ्ग दैव्ये
ति त्वमिति भवति बृहतो रूपम् ।
बार्हतमेतदहः ।
पवमान जनिमानि द्युमत्तम
इति जनद्वतीर्भवन्ति ।
षोडशिनमेवैतत्तृतीयसवनात्प्रजनयन्ति ७७