०७६

परि प्रिया दिवः कविर्

इत्यार्भवस्य पवमानस्य परिवतीर्गायत्र्यो भवन्त्यन्तस्य रूपम् ।

अन्तो वा अनुष्टुप्छन्दसाम् ।

आनुष्टुभमेतदहः ।

प्रप्र क्षयाय पन्यस

इति प्रायणीयरूपमेवैतदुपगच्छन्ति ।

प्रायणीयं ह्येतदहः ।

स सूनुर्मातरा शुचिर्जातो जाते अरोचयद्

इति जनद्वतीर्भवन्ति ।

षोडशिनमेवैतत्तृतीयसवनात्प्रजनयन्ति ।

तासु गायत्रमुक्तब्राह्मणम् ।

अथौर्णायवम् ।

ऊर्णायुर्वै गन्धर्वोऽप्सरसोऽकामयत ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

तेन यां यामकामयत तामीयामिति यां यामेवाभ्यमृशत्तामुपैत्तामवारुन्द्ध ।

तदेतत्कामसनि साम ।

एतं वै स काममकामयत ।

सोऽस्मै कामस्समार्ध्यत ।

यत्काम एवैतेन साम्ना स्तुते । समस्मै स काम ऋध्यते ।

यदूर्णायुर्गन्धर्वोऽपश्यत्तस्मादौर्णायवमित्याख्यायते ७६