यो राजा चर्षणीनाम्
इति राज्यमिव ह्येतर्ह्यगच्छन् ।
याता रथेभिरध्रिगुः ।
विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे
इति ज्यैष्ट्यमिव ह्येतर्ह्यगच्छन् ।
इन्द्रं तं शुम्भ पुरुहन्मन्नवसे यस्य द्विता विधर्तरि ।
हस्तेन वज्रः प्रति धायि दर्शतो महान्देवो न सूर्यः
इति सूर्यवतीर्भवन्ति ।
सौर्यं ह्येतदहरेकविंशम् ।
प्रतिष्ठा वैराजम् ।
तासु पृश्नि ।
वाग्वै पृश्नि ।
वाचमेतेनाह्ना समिच्छन्ति ।
तामेवैतत्संविदन्ति ।
तद्वेवाचक्षते भरद्वाजस्य पृश्नीति ।
भरद्वाजो वा अकामयत बहुः प्रजया पशुभिः प्रजायेयेति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स बहुः प्रजया पशुभिः प्रजायत ।
सोऽब्रवीत्पृश्निर्वै बहुः प्रजया पशुभिः प्राजनिषीति ।
तत्पृश्निनः पृश्नित्वम् ।
तदेतत्प्रजननं साम ।
बहुः प्रजया पशुभिः प्रजायते य एवं वेद ।
अथो ह स्मैतेनैव साम्ना भरद्वाजः पृशन्यन्नाद्यमवरुन्द्धे ।
तद्वन्नाद्यस्यावरुद्धिस्साम ।
अवान्नाद्यं रुन्द्धेऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद ।
यदु भरद्वाजोऽपश्यत्तस्माद्भरद्वाजस्य पृश्नीत्याख्यायते ।
तदैळमच्छावाकसाम भवति ।
पशवो वा इळा ।
पशुष्वेवैतत्प्रतितिष्ठन्ति ७५