यथा मणौ मणिसूत्रं परिदृश्येतैवम् ।
अथाकामयत त्रिशोको व्येनामस्येयमिति ।
स एतत्सामापश्यत् ।
तेनैनां द्वेधा व्यास्यत् ।
तस्यै तान्तो निवर्तत ।
तमकामयत जीवेदिति ।
तमो यि जीवेत्येवाभ्यमृशत् ।
सोऽजीवत् ।
तस्मै तम इवासीत् ।
सोऽकामयत दिवेवास्मै स्यादिति ।
तमो यि दिवेत्येवाभ्यमृशत् ।
तस्मै दिवेवासात् ।
तमकामयत स्वर्गमेवैनं लोकं गमयेयमिति ।
तमो यि दिवमित्येव स्वर्गं लोकमगमयत् ।
ययस्तान्त इव स्यात्तस्य ओ यि जीवेति निधनमुपेयात् ।
अथ यस्मै तम इव स्यात्तस्य ओ यि दिवेति निधनमुपेयात् ।
अथ य सर्गकाम स्यात्तस्य ओ यि दिवमित्येव निधनमुपेयात् ।
एतानि वा एतस्य साम्नो निधनानि । एते कामाः ।
एतानेव कामानवरुन्द्धे ।
यत्काम एवैतेन साम्ना स्तुते समस्मै स काम ऋध्यते । यदु त्रिशोकोऽपश्यत्तस्मात्त्रैशोकमित्याख्यायते ७४