०७३

ते होचुर्ब्राह्मणो वा अयमृषिरासीत् ।

दुरपहरा वा अस्य जाया ।

हन्तास्मा इमां ददामेति ।

तां हास्मै ददुः सा होवाच पुनर्वाव त्वा परोक्षेणेव जिघांसन्ति ।

तस्यां मोपवेशीरिति ।

ते ह प्रययुः ।

तस्मै ह हिरण्मयीमासन्दीं प्रच्छाये निदधुः ।

तस्यां ह प्रमत्त उपविवेश ।

सा हैनं तदेव शिला भूत्वाभिसंविवेष्टे ।

तदु ह त्रिशोकनभाकौ पुत्रावनुबुबुधातेऽसुरा ह वै नौ पितरं शिलयाभिसमविवेष्टन्निति ।

तावागच्छताम् ।

सोऽकामयत नभाकः प्रैनान्दम्भयेयमिति ।

स एतन्नाभाकं सूक्तमपश्यत् ।

तेनैनामभ्यष्टौत् ।

तस्यां पर्यदृश्यत ७३