तासु त्रैशोकम् ।
व्यवप्लीनातीव वै वैराजं यज्ञम् ।
तं त्रैशोकेनोत्तभ्नुवन्ति वर्षीयसेव छन्दसा ।
इमे वै लोकास्सह सन्तस्त्रेधाप्यायन् ।
तेऽशोचन्यथैकस्त्रेधा विच्छिन्नश्शोचेदेवम् ।
ते देवा अब्रुवन्नेतेषां त्रयाणां लोकानां तिस्रश्चुचोऽपहनामेति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तेनैषां त्रयाणां लोकानां तिस्रश्शुचोऽपाघ्नन् ।
तद्यदेषां त्रयाणां लोकानां तिस्रश्शोचोऽपाघ्नंस्तत्त्रैशोकस्य त्रैशोकत्वम् ।
अप शुचं हते य एवं वेद ।
ताः कीबे कितवे पुंश्चल्यां न्यवेशयन् ।
तस्मादेते शुचा विद्धाश्शोचन्ति ।
न हास्यैत आजायन्ते य एवं वेद ।
तस्मादु हैतेषां नोऽप ब्रूवीत नेच्छुचोऽपभजा इति ।
कण्वो वै नार्षदोऽखगस्यासुरस्य दुहितरमविन्दत ।
तस्यां हास्य त्रिशोकनभाकौ पुत्रौ जज्ञाते ।
सा ह क्रुद्धा ज्ञातीनाययौ ।
तां हान्वाजगाम ।
तं हासुरा अवलेपेनावलिम्पन्त ऊचुरत्र व्युष्टां विजानीहि यदि ब्राह्मणोऽसीति ।
तदु हाश्विनावनुबुबुधाते ।
आश्विना उ ह वै देवानां बद्धमुचौ ।
तौ हैनमदृश्यमानावेत्योचतुर्यदैव त्रावं वीणां समाघ्नन्ता उपर्युपर्यतिपतावोऽथ व्युष्टां विजानीतादिति ।
ते ह स्मेमे रात्रिमुत्पतन्त्युत्तिष्ठत । व्यापद्द्युर् । युङ्ग्ध्वं सीराणीति ।
न वाव नु व्युच्छतीति ह स्माह ।
अथ हेमौ वीणां समाघ्नन्ता उपर्युपर्यतिपेततुः ।
स होवाचापहरतेदमेतर्हि व्यापद्द्युर् । युङ्ग्ध्वं सीराणीति ७२