तदाहुरन्नाद्यं वा एतस्माद्धरन्ति यस्मादग्निं हरन्तीति ।
तमनुमन्त्रयेत
पुनरूर्जा नि वर्तत्व पुनरग्न इषायुषा ।
पुनर्नः पाह्यंहसः
सह रय्या निवर्तस्वाग्ने पिन्वस्व धारया ।
विश्वप्स्न्या विश्वतस्परि
इति पुनरेवान्नाद्यमात्मन्धत्ते ।
येन प्रस्तौति तेन निधनमुपयन्ति ।
तस्मादसावादित्य आ च परा च सञ्चरति ।
यत एवाद्योदगात्तत श्व उदेता ।
अथ वामदेव्यम् ।
पशवो वामदेव्यम् ।
पशुमन्त एव भवन्त्येनेन तुष्टुवानाः ।
विश्वाः पृतना अभिभूतरं नरस्सजूस्ततक्षुरिन्द्रं जजनुश्च राजस
इति जनद्वतीर्भवन्ति ।
जनद्वदेतस्य वैराजस्याह्नो रूपम् ७१