०७०

प्रजननं वा एतद्यद्वैराजम् ।

तद्यन्मिथुनाभ्यां स्तोभाभ्यामारभते मिथुनस्यैव प्रजात्यै ।

त्रयः पूर्वे स्तोभादेव सत्यात्प्रजाः प्रजायान्ता इति । त्रय उत्तरे प्राणोऽपानो व्यानः ।

त एव तेनोपधीयन्ते ।

त्रिः पदमाह ।

मिघुनं द्वे सम्भवतः ।

यन्मिथुनात्प्रजायते तत्तृतीयम् ।

त्रिरनुनुदति ।

अनुनुन्नाद्वै प्रजाः पशवः प्रजायन्ते ।

प्र प्रजया पशुभिर्जायते य एवं वेद ।

दशकृत्वो विष्टभ्नोत्य् । अस्थान्येव तत्प्रतिवपति ।

नवोत्तरे स्तोभा निधनं दशमं दशाक्षरा विराड् । अन्नं विराड् विराज एवान्नाद्यस्यावरुद्ध्यै ।

अग्निं मन्थन्ति ।

अग्निर्वै विराट् ।

विराजमेव तदन्नाद्यं प्रजनयन्ति ।

हिङ्कृत्या प्रस्तुत्य मन्थन्ति ।

हिङ्कृताद्धि रेतो धीयते ।

अथो साम्न एवैतन्मध्यतो विराजमन्नाद्यं प्रजनयन्ति ।

उद्गातुरूरौ मन्थन्ति । प्रस्तोतृप्रतिहर्तारौ धायनतो । विराजोऽनवच्छेदाय ।

दक्षिण ऊरौ मन्थन्ति ।

तस्मादेष पुरुषस्यार्धो वीर्यावत्तरः ।

शकलेऽधि मन्थन्ति शान्त्यै ।

अवकास्वधि मन्थन्त्यनतिदाहाय ।

तं जातमाग्नीध्रं हरन्ति ।

अतो ह्यग्नीन्विहरन्ति ।

तदु वा आहुराहवनीयमेव हार्यो यजमानो वा आहवनीयः प्रजैषा ।

यजमानमेव तत्प्रजया समर्धयन्ति ७०