०६९

अथ चतुर्णिधनमाङ्गिरसं चतुर्थस्याह्नो रुपम् ।

अथो तेनैव चत्वार्यहानि कल्पन्ते ।

अङ्गिरसः पशुकामा स्वर्गकामास्तपोऽतप्यन्त ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

त एतां मध्य इळामुपेत्य स्वर्युपरिष्टादुपायन् ।

पशवो वा इळा स्वर्गो लोक स्वः ।

पशुषु वाव ते तदास्थाय स्वर्गं लोकमगच्छन् ।

तदेतत्पशव्यं स्वर्ग्यं साम ।

अव पशून्रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद ।

यद्वाङ्गिरसोऽपश्यंस्तस्माच्चतुर्णिधनमाङ्गिरसमित्याख्यायते ।

अथैना भवन्ति

पुनानो अक्रमीदभी

त्यभ्यतिक्रान्तिनीः ।

पराञ्चो ह्येतदिमाल्ँ लोकानभ्यतिक्रामन्ति ।

आदित्यलोकमेवाभीमे वै लोकाः ।

एष पूर्वस्त्र्यहः ।

आदित्यलोक एव चतुर्थमहः ।

तमेवैतदभ्यतिक्रामन्ति ।

आ योनिसरुणो रुहद्

इति योनिमतीर्भवन्ति ।

योनेर्वै प्रजाः पशवः प्रजायन्ते ।

जनद्वदेतस्य वैराजस्याह्नो रूपम् ।

गमदिन्द्रो वृषा सुत

इति वृषण्वतीर्भवन्ति बृहतो रूपम् ।

बार्हतमेतदहः ।

नू नो रयिं महामिन्द्रो ऽस्यभ्यं सोम विश्वत

इति विश्ववतीर्भवन्ति ।

वैश्वदेवं ह्येतदहः ।

आ पवस्व सहस्रिणम्

इति सहस्ररूपं विराजमुपगच्छन्ति ।

वैराजं ह्येतदहः ।

तदाहुर्यन्ति वा एते त्रिष्टुभः पवमानन्ताद्ये गायत्रीष्वन्त्यं कुर्वन्तीति ।

वृषण्वतीर्भवन्ति ।

वृषण्वद्वै त्रिष्टुभो रूपम् ।

तेन त्रिष्टुभः पवमानान्तान्न यन्ति ।

तासु सत्रासाहीयमुक्तब्राह्मणम् ।

तदुक्थसाम भवति पशवो वा उक्थानि पशूनामेवावरुद्ध्यै ।

तदाहुरुक्थसाम सत्पवमाने क्रियते कस्मात्तदिति ।

प्रातस्सवनभाजनं प्रथममहर् । माध्यन्दिनभाजनं द्वितीयं । तृतीयसवनभाजनं तृतीयम् ।

अथैतदुक्थभाजनम् ।

तद्यदत्र सत्रासाहीयं क्रियते तेनैनदुक्थेभ्यो त च्यावयन्ति ।

तदेनत्स्वेनायतनेन समृद्धयन्ति ।

तेनैभ्यस्समृद्धेन स्वायां जनतायामर्धुकं भवति ।

अथो पशवो वा उक्थान्य् । आत्मा मध्यन्दिनः ।

तद्यत्सत्रासाहीयं मध्यन्दिनमभि प्रत्याहरन्त्यात्मन्नेवैतत्पशून्प्रतिष्ठापयन्ति ६९